Sandhya Chanting Mantra (नित्यसाधना)
01. ॐ सह नाववतु ।
सह नौ भुनक्तु ।
सह वीर्यं करवावहै।
तेजस्वि नावधीतमस्तु मा विद्विषावहै ।
ॐ शान्तिः शान्तिः शान्तिः ॥
ॐ श्री गणेशाय नम: ।
ॐ श्री सरस्वति नम: ।
ॐ श्री गुरूभ्यो नम:॥
a. श्रुति-स्मृति-पुराणां आलयं करुणालयम् ।
नमामि भगवत्पाद शङ्करं लोकशङ्करम् ॥
b. समस्त-जन-कल्याने निरतं करुनामयम् ।
नमामि चिनमयं देवं सद्गुरुं ब्रह्मविदूरम् ॥
c. मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिं ।
यत्कृपा तमहं वन्दे परमानन्द माधवम् ॥
02. गुरूर्ब्रह्मा गुरूर्विष्णुः गुरूर्देवो महेश्र्वरः ।
गुरूः साक्षात् परमं ब्रह्म तस्मै श्रीगुरवे नमः॥
b. गुरूवे सर्वलोकानां भिषजे भवरोगिणाम् ।
निधये सर्वविधानां दक्षिणामूर्तये नमः ॥
c. अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥
03. दीपम् ज्योति परमब्रह्मन दीपेन परायणे ।
दीपेनः हरतेपापम् प्रातर/संध्या दीपे नमस्तुते॥
b. शुभं करोति कल्याणम् अरोग्यं धनसंपदः ।
शत्रुबुद्धिविनाशाय दीपज्योतिर्नमोऽस्तुते ॥
04. सरस्वति नमस्तुभ्यं वरदे कामरूपिणि ।
विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ॥
05. ॐ भूर्भुवः स्वः ।
तत्सवितुर्वरेण्यं ।
भर्गो देवस्य धीमहि ।
धियो यो नः प्रचोदयात् ॥
06. ॐ सर्वेशां स्वस्तिर्भवतु । सर्वेशां शान्तिर्भवतु ।
सर्वेशां पुर्णंभवतु । सर्वेशां मङ्गलंभवतु ॥
07. ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःखभाग्भवेत्॥
ॐ शान्तिः शान्तिः शान्तिः ॥
08. ॐ भस्मायुधाय विदमहे रक्तनेत्राय धीमहि ।
तन्नोः करोनज्वरः हरफ प्रचोदयात् ॥
09. ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीय मामृतात् ॥
10. ॐ मृत्युंजायाय रुद्राय नीलकंठाय शंभवे ।
अमृतेशाय शर्वाय महादेवाय ते नम: ॥
11. ॐ नमस्ते अस्तु भगवन
विश्र्वेश्र्वराय महादेवाय
त्र्यम्बकाय त्रिपुरान्तकाय
त्रिकाग्निकाय कालाग्निरुद्राय ।
नीलकण्ठाय मृत्युंजयाय
सर्वेश्र्वराय सदाशिवाय
श्रीमन् महादेवाय नमः ॥
12. ॐ स्वस्ति प्रजाभ्यः परिपालयन्तां
न्याय्येन मार्गेण महीं महीशाः ।
गोब्राह्मणेभ्यः शुभमस्तु नित्यम्
लोकाः समस्ताः सुखिनो भवन्तु ॥
काले वर्षतु पर्जन्यः । पृथिवी सस्यशालिनी ।
देशो ऽयं क्षोभरहितः। ब्राह्मणास्सन्तु निर्भयाः॥
13. प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।
भक्तावासं स्मरेन्नित्यं आयुःकामार्थसिद्धये ॥
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् ।
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥
14. सर्वदेवात्मको ह्येषः तेजस्वी रश्मिभावन: ।
एष देवासुरगणांल्लोकान् पाति गभस्तिभि:॥
हिरण्यगर्भ: शिशिरस्तपनोऽहस्करो रवि: ।
अग्निगर्भोऽदिते: पुत्रः शंखः शिशिरनाशन: ॥
एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च ।
कीर्तयन् पुरुष: कश्चिद् नावसीदति राघव ॥
15. ॐ असतो मा सद्गमय ।
तमसो मा ज्योतिर्गमय ।
मृत्योर्मा अमृतं गमय ।
ॐ शान्तिः शान्तिः शान्तिः॥
16. धरणीगर्भ संभूतं विद्युत्कांति समप्रभम् ।
कुमारं शक्तिहस्तं तं मंगलं प्रणाम्यहम् ॥
17. त्वमेव माता च पिता त्वमेव
त्वमेव बन्धुश्च सखा त्वमेव।
त्वमेव विद्या द्रविणं त्वमेव
त्वमेव सर्वं मम देव देव॥
18. शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
19. शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं ।
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ॥
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं।
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥
b. दुष्टविमर्दन शिष्टहरे कलितुरगोत्तमवाहन रे ।
कल्किन् करकरवाल नमो
हरिभक्तं ते परिपालय माम् ॥
20. ॐ नमो भगवते महासुदर्शनाय
वासुदेवाय धन्वन्तरायेः ।
अमृतकलश हस्ताय
सर्व भयविनाशाय सर्व रोगनिवारणाय्।
त्रिलोकपथाय त्रिलोकनाथाय
श्री महाविष्णुस्वरूप श्रीधनवन्तरी स्वरूप
श्री श्री श्री औषधचक्र नारायणाय नमः ॥
21. रोगं शोकं तापं पापं,
हर मे भगवति कुमतिकलापम् ।
त्रिभुवनसारे वसुधाहारे,
त्वमसि गतिर्मम खलु संसारे ॥
22. सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥
23. श्री दुर्गा बत्तीस नामवली स्त्रोत :-
दुर्गा दुर्गार्ति शमनी दुर्गापद्विनिवारिणी।
दुर्गामच्छेदिनी दुर्गसाधिनी दुर्गनाशिनी ।
दुर्गतोद्धारिणी दुर्गनिहन्त्री दुर्गमापहा ।
दुर्गम ज्ञानदा दुर्गदैत्यलोकदवानला ।
दुर्गमा दुर्गमालोका दुर्गमात्मस्वरूपिणी ।
दुर्गमार्गप्रदा दुर्गमविद्या दुर्गमाश्रिता ।
दुर्गमज्ञानसंस्थाना दुर्गमध्यानभासिनी ।
दुर्गमोहा दुर्गमगा दुर्गमार्थस्वरूपिणी।
दुर्गमासुरसंहन्त्री दुर्गमायुधधारिणी ।
दुर्गमाङ्गी दुर्गमाता दुर्गम्या दुर्गमेश्वरी ।
दुर्गभीमा दुर्गभामा दुर्लभा दुर्गधारिणी ।
नामावली ममायास्तु दुर्गया मम मानसः ।
पठेत् सर्व भयान्मुक्तो भविष्यति न संशयः॥
24. शवाकारे शक्तिरूपे शक्तिस्थे शक्तिविग्रहे।
शक्ताचारप्रिये देवि जगद्धात्रि नमोऽस्तु ते ॥
25. या दिव्या शिवकेशवादिजननी
या वै जगन्मोहिनी
या ब्रह्मादि पिपीलिकान्त
जगदानन्दैक सन्दायिनी ।
या पञ्चप्रणव-द्विरेफनलिनी या चित्कलामालिनी
सा पायात् परदेवता भगवती श्रीराजराजेश्वरी ॥
26. न मत्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो
न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः।
न जाने मुद्रास्ते तदपि च न जाने विलपनं
परं जाने मातस्त्वदनुसरणं क्लेशहरणम् ॥
27. श्री राम राम रामेति रमे रामे मनोरमे ।
सहस्रनाम तत्तुल्यं रामनाम वरानने ॥
b. रामाय रामभद्राय रामचन्द्राय वेधसे ।
रघुनाथाय नाथाय सीतायः पतये नम:॥
28. आपदांपहर्तारम् दातारम सर्वसम्पदाम् ।
लोकाभीरामम् श्रीरामं भूयो भूयो नमाम्यहम् ॥
आर्तानामार्तिहन्तारम् भीतानां भीतिनाशनं ।
द्विषतां कालदण्डं तं रामचन्द्रं नमाम्यहम् ॥
29. मनोजवं मारुततुल्यवेगं
जितेन्द्रियं बुद्धिमतां वरिष्ठम्।
वातात्मजं वानरयूथमुख्यं
श्रीरामदूतम् शरणं प्रपद्ये।।
b. बुद्धिहीन तनु जानिके, सुमिरौं पवनकुमार ।
बल बुद्धि बिद्या देहुमोहिं, हरहु कलेस बिकार॥
30. पवनतनय संकट हरन, मंगल मूरति रूप ।
राम लखन सीता सहित, हृदय बसहु सुर भूप॥
सियावर रामचंद्रजी की जय
उमापति महादेव की जय
पवनसुत हनुमान की जय
जय जय सब संतन की जय
31. यानि कानि च पापानि जन्मान्तर कृतानि च ।
तानि तानि विनश्यन्ति प्रदक्षिणा पदे-पदे ॥
b. पापोहम पापकर्माहम पापात्मा पापसम्भवः
त्राहिमाम् कृपयादेव शरणागत वत्सलः
अन्यताम शरणम् नास्ति त्वमेव शरणम् मम ।
तत्मात् कारुण्य भावेन रक्षरक्षो जनार्दना
आत्मकोटि अनन्त
प्रदक्षिणा नमस्कारम् समर्पयामि॥
c. यदक्षर-पद-भ्रष्टं मात्रा-हीनं च यद्भवेत् ।
तत् सर्वं क्षम्यतां देव परमेश नमोस्तुते ॥
विसर्ग-बिन्दु-मात्राणि पद-पादाक्षराणि च ।
न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम ॥
32. ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः